यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥42॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेष बहुलां भोगैश्वर्य गतिं प्रति ॥43॥
भोगैश्वर्य प्रसक्तानां तयापहृत चेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥44॥
Please fill out the form below and we will get back to you as soon as possible.